Sukta 7.57
ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम । मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥
ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आग॑: पुरु॒षता॒ करा॑म । मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥
ṛ́dhaksā vo maruto didyúd astu yád va ā́gaḥ puruṣátā kárāma | mā́ vas tasyā́m ápi bhūmā yajatrā asmè vo astu sumatíś caníṣṭhā ||
Let your lightning be set apart from us, O Maruts, if by human failing we have done offence against you. Let us not fall into that; O adorable ones, may your most abiding right-mindedness be with us.
ऋध॑क् । सा । वः॒ । म॒रु॒तः॒ । दि॒द्युत् । अ॒स्तु॒ । यत् । वः॒ । आगः॑ । पु॒रु॒षता॑ । करा॑म । मा । वः॒ । तस्या॑म् । अपि॑ । भू॒म॒ । य॒ज॒त्राः॒ । अ॒स्मे इति॑ । वः॒ । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥ऋधक् । सा । वः । मरुतः । दिद्युत् । अस्तु । यत् । वः । आगः । पुरुषता । कराम । मा । वः । तस्याम् । अपि । भूम । यजत्राः । अस्मे इति । वः । अस्तु । सुमतिः । चनिष्ठा ॥ṛdhak | sā | vaḥ | marutaḥ | didyut | astu | yat | vaḥ | āgaḥ | puruṣatā | karāma | mā | vaḥ | tasyām | api | bhūma | yajatrāḥ | asme iti | vaḥ | astu | su-matiḥ | caniṣṭhā