Sukta 7.57
नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः । आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम् ॥
नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज॑न्ते रु॒क्मैरायु॑धैस्त॒नूभि॑: । आ रोद॑सी विश्व॒पिश॑: पिशा॒नाः स॑मा॒नम॒ञ्ज्य॑ञ्जते शु॒भे कम् ॥
náitā́vad anyé marúto yáthéme bhrā́jante rukmáir ā́yudhais tanū́bhiḥ | ā́ ródasī viśvá-piśaḥ piśānā́ḥ samānám añjí añjate śubhé kám ||
No other Maruts are so much as these: they shine with golden splendours, with weapons and with their own embodied powers. Fashioning every form, they adorn the two worlds with one same beauty, for a radiant joy.
न । ए॒ताव॑त् । अ॒न्ये । म॒रुतः॑ । यथा॑ । इ॒मे । भ्राज॑न्ते । रु॒क्मैः । आयु॑धैः । त॒नूभिः॑ । आ । रोद॑सी॒ इति॑ । वि॒श्व॒ऽपिशः॑ । पि॒शा॒नाः । स॒मा॒नम् । अ॒ञ्जि । अ॒ञ्ज॒ते॒ । शु॒भे । कम् ॥न । एतावत् । अन्ये । मरुतः । यथा । इमे । भ्राजन्ते । रुक्मैः । आयुधैः । तनूभिः । आ । रोदसी इति । विश्वपिशः । पिशानाः । समानम् । अञ्जि । अञ्जते । शुभे । कम् ॥na | etāvat | anye | marutaḥ | yathā | ime | bhrājante | rukmaiḥ | āyudhaiḥ | tanūbhiḥ | ā | rodasī iti | viśva-piśaḥ | piśānāḥ | samānam | añji | añjate | śubhe | kam