Sukta 7.57
निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म । अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥
नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णन्तं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ । अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥
nicetā́ro hí marúto gṛṇántaṃ praṇetā́ro yajámānasya mánma | asmā́kam adyá vidátheṣu bárhir ā́ vītáye sadata pipriyāṇā́ḥ ||
For the Maruts are indeed discerning guides: they lead forward the thought of the sacrificer who sings. Today, in our assemblies, sit upon the sacred seat of offering for your enjoyment, taking delight in us.
नि॒चे॒तारः॑ । हि । म॒रुतः॑ । गृ॒णन्त॑म् । प्रऽने॒तारः॑ । यज॑मानस्य । मन्म॑ । अ॒स्माक॑म् । अ॒द्य । वि॒दथे॑षु । ब॒र्हिः । आ । वी॒तये॑ । स॒द॒त॒ । पि॒प्रि॒या॒णाः ॥निचेतारः । हि । मरुतः । गृणन्तम् । प्रनेतारः । यजमानस्य । मन्म । अस्माकम् । अद्य । विदथेषु । बर्हिः । आ । वीतये । सदत । पिप्रियाणाः ॥nicetāraḥ | hi | marutaḥ | gṛṇantam | pra-netāraḥ | yajamānasya | manma | asmākam | adya | vidatheṣu | barhiḥ | ā | vītaye | sadata | pipriyāṇāḥ