Sukta 7.57
मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति । ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥
मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्रा॒: प्र य॒ज्ञेषु॒ शव॑सा मदन्ति । ये रे॒जय॑न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया॑सुरु॒ग्राः ॥
mádhvo vo nā́ma mā́rutam yajatrā́ḥ prá yajñéṣu śávasā madanti | yé rejáyanti ródasī cid urvī́ pinvánty útsaṃ yád ayā́sur ugrā́ḥ ||
O adorable Maruts, your very name is honeyed delight: in the inner sacrifice you surge forward, intoxicated with conscious force. You who can shake even the two vast worlds, you make the hidden fountain swell when, as the mighty ones, you set your energies in motion.
मध्वः॑ । वः॒ । नाम॑ । मारु॑तम् । य॒ज॒त्राः॒ । प्र । य॒ज्ञेषु॑ । शव॑सा । म॒द॒न्ति॒ । ये । रे॒जय॑न्ति । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । पिन्व॑न्ति । उत्स॑म् । यत् । अया॑सुः । उ॒ग्राः ॥मध्वः । वः । नाम । मारुतम् । यजत्राः । प्र । यज्ञेषु । शवसा । मदन्ति । ये । रेजयन्ति । रोदसी इति । चित् । उर्वी इति । पिन्वन्ति । उत्सम् । यत् । अयासुः । उग्राः ॥madhvaḥ | vaḥ | nāma | mārutam | yajatrāḥ | pra | yajñeṣu | śavasā | madanti | ye | rejayanti | rodasī iti | cit | urvī iti | pinvanti | utsam | yat | ayāsuḥ | ugrāḥ