Sukta 7.55
सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् । तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥
स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् । तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥
sahásra-śṛṅgo vṛṣabhó yáḥ samudrā́d udā́carat | ténā sahasyèna vayáṁ ní jánān svāpayāmasi ||
The bull with a thousand horns that rose up out of the ocean-depth—by that mighty force we cause the peoples to sink into sleep, into a quiet settling.
स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । यः । स॒मु॒द्रात् । उ॒त्ऽआच॑रत् । तेन॑ । स॒ह॒स्ये॑न । व॒यम् । नि । जना॑न् । स्वा॒प॒या॒म॒सि॒ ॥सहस्रशृङ्गः । वृषभः । यः । समुद्रात् । उत्आचरत् । तेन । सहस्येन । वयम् । नि । जनान् । स्वापयामसि ॥sahasra-śṛṅgaḥ | vṛṣabhaḥ | yaḥ | samudrāt | ut-ācarat | tena | sahasyena | vayam | ni | janān | svāpayāmasi