Sukta 7.54
वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व ॥
वास्तो॑ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे॑भिरिन्दो । अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान्प्रति॑ नो जुषस्व ॥
vā́stoḥ pate pra-táraṇo na edhi gaya-sphā́no góbhir áśvebhir indo | ajárāsas te sakhyé syāma pitḗva putrā́n práti no juṣasva ||
O Lord of the dwelling, be our farther-leading deliverer; be life-increasing for us with the rays of Light and the powers of movement, O Soma-like joy. May we be unaging in your friendship; as a father his sons, accept us turned toward you.
वास्तोः॑ । प॒ते॒ । प्र॒ऽतर॑णः । नः॒ । ए॒धि॒ । ग॒य॒ऽस्फानः॑ । गोभिः॑ । अश्वे॑भिः । इ॒न्दो॒ इति॑ । अ॒जरा॑सः । ते॒ । स॒ख्ये । स्या॒म॒ । पि॒ताऽइ॑व । पु॒त्रान् । प्रति॑ । नः॒ । जु॒ष॒स्व॒ ॥वास्तोः । पते । प्रतरणः । नः । एधि । गयस्फानः । गोभिः । अश्वेभिः । इन्दो इति । अजरासः । ते । सख्ये । स्याम । पिताइव । पुत्रान् । प्रति । नः । जुषस्व ॥vāstoḥ | pate | pra-taraṇaḥ | naḥ | edhi | gaya-sphānaḥ | gobhiḥ | aśvebhiḥ | indo iti | ajarāsaḥ | te | sakhye | syāma | pitāiva | putrān | prati | naḥ | juṣasva