Sukta 7.54
वास्तोष्पते प्रति जानीह्यस्मान्त्स्वावेशो अनमीवो भवा नः । यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥
वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्त्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः । यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥
vā́stoḥ pate práti jānīhy asmā́n svā́veśo anamī́vo bhavā naḥ | yát tvēmáhe práti tán no juṣasva śáṃ no bhava dvípade śáṃ cátuṣpade ||
O Lord of the dwelling, take cognizance of us; be for us a good entering and free from affliction. What we ask of you, accept it in return; be peace for our two-footed and peace for our four-footed in the house of being.
वास्तोः॑ । प॒ते॒ । प्रति॑ । जा॒नी॒हि॒ । अ॒स्मान् । सु॒ऽआ॒वे॒शः । अ॒न॒मी॒वः । भ॒व॒ । नः॒ । यत् । त्वा॒ । ईम॑हे । प्रति॑ । तत् । नः॒ । जु॒ष॒स्व॒ । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥वास्तोः । पते । प्रति । जानीहि । अस्मान् । सुआवेशः । अनमीवः । भव । नः । यत् । त्वा । ईमहे । प्रति । तत् । नः । जुषस्व । शम् । नः । भव । द्विपदे । शम् । चतुःपदे ॥vāstoḥ | pate | prati | jānīhi | asmān | su-āveśaḥ | anamīvaḥ | bhava | naḥ | yat | tvā | īmahe | prati | tat | naḥ | juṣasva | śam | naḥ | bhava | dvi-pade | śam | catuḥ-pade