Sukta 7.53
प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥
प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ । आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थम् ॥
prá pūrvajé pitarā́ návyasībhiḥ gīrbhíḥ kṛṇudhvam sádane ṛtásya | ā́ no dyāvāpṛthivī daívyena jánena yātam máhi vāṃ várūtham ||
O Parents born before, fashion with ever-new words your presence in the seat of Ṛta. Come to us, Heaven and Earth, with the divine peoples (powers); great is your protecting wideness around us.
प्र । पू॒र्व॒जे इति॑ पू॒र्व॒ऽजे । पि॒तरा॑ । नव्य॑सीभिः । गीः॒ऽभिः । कृ॒णु॒ध्व॒म् । सद॑ने । ऋ॒तस्य॑ । आ । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । दैव्ये॑न । जने॑न । या॒त॒म् । महि॑ । वा॒म् । वरू॑थम् ॥प्र । पूर्वजे इति पूर्वजे । पितरा । नव्यसीभिः । गीःभिः । कृणुध्वम् । सदने । ऋतस्य । आ । नः । द्यावापृथिवी इति । दैव्येन । जनेन । यातम् । महि । वाम् । वरूथम् ॥pra | pūrvaje itipūrva-je | pitarā | navyasībhiḥ | gīḥ-bhiḥ | kṛṇudhvam | sadane | ṛtasya | ā | naḥ | dyāvāpṛthivī iti | daivyena | janena | yātam | mahi | vām | varūtham