Sukta 7.53
प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे । ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥
प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे । ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णन्त॑: पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥
prá dyā́vā yajñáiḥ pṛthivī́ námobhiḥ sabā́dha īḷe bṛhatī́ yájatre | té cíd dhi pū́rve kaváyo gṛṇántaḥ puró mahī́ dadhire deváputre ||
With sacrifices Heaven and with acts of reverence Earth—together and without division—I invoke the two vast and worthy of offering. For even the ancient seers, chanting, set these two in the forefront, the great god-born powers.
प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । नमः॑ऽभिः । स॒ऽबाधः॑ । ई॒ळे॒ । बृ॒ह॒ती इति॑ । यज॑त्रे॒ इति॑ । ते इति॑ । चि॒त् । हि । पूर्वे॑ । क॒वयः॑ । गृ॒णन्तः॑ । पु॒रः । म॒ही इति॑ । द॒धि॒रे । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ॥प्र । द्यावा । यज्ञैः । पृथिवी इति । नमःभिः । सबाधः । ईळे । बृहती इति । यजत्रे इति । ते इति । चित् । हि । पूर्वे । कवयः । गृणन्तः । पुरः । मही इति । दधिरे । देवपुत्रे इति देवपुत्रे ॥pra | dyāvā | yajñaiḥ | pṛthivī iti | namaḥ-bhiḥ | sa-bādhaḥ | īḷe | bṛhatī iti | yajatreiti | | te iti | cit | hi | pūrve | kavayaḥ | gṛṇantaḥ | puraḥ | mahī iti | dadhire | devaputreitideva-putre