Sukta 7.52
मित्रस्तन्नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः । मा वो भुजेमान्यजातमेनो मा तत्कर्म वसवो यच्चयध्वे ॥
मि॒त्रस्तन्नो॒ वरु॑णो मामहन्त॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः । मा वो॑ भुजेमा॒न्यजा॑त॒मेनो॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ॥
mitrás tán no váruṇo māmahanta śárma tokā́ya tánayāya gopā́ḥ | mā́ vo bhujemā́nyajātam éno mā́ tát karma vásavo yác cáyadhve ||
May Mitra and Varuṇa greatly increase for us a shelter—guarding our child and our offspring. Let us not suffer for a sin born from another; and O Vasus, do not fasten upon us that deed which you lay up (as consequence).
मि॒त्रः । तत् । नः॒ । वरु॑णः । म॒म॒ह॒न्त॒ । शर्म॑ । तो॒काय॑ । तन॑याय । गो॒पाः । मा । वः॒ । भु॒जे॒म॒ । अ॒न्यऽजा॑तम् । एनः॑ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय॑ध्वे ॥मित्रः । तत् । नः । वरुणः । ममहन्त । शर्म । तोकाय । तनयाय । गोपाः । मा । वः । भुजेम । अन्यजातम् । एनः । मा । तत् । कर्म । वसवः । यत् । चयध्वे ॥mitraḥ | tat | naḥ | varuṇaḥ | mamahanta | śarma | tokāya | tanayāya | gopāḥ | mā | vaḥ | bhujema | anya-jātam | enaḥ | mā | tat | karma | vasavaḥ | yat | cayadhve