Sukta 7.52
आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा । सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥
आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे॑व॒त्रा व॑सवो मर्त्य॒त्रा । सने॑म मित्रावरुणा॒ सन॑न्तो॒ भवे॑म द्यावापृथिवी॒ भव॑न्तः ॥
ādityā́so áditayaḥ syāma pū́r devatrā́ vásavo martyatrā́ | sánema mitrā́varuṇā sánanto bhávema dyāvāpṛthivī bhávantaḥ ||
May we be Ādityas, children of Aditi—strongholds in the divine way, and in the mortal way too. O Mitra and Varuṇa, winning and ever-winning, may we win; may we become in our becoming like Heaven and Earth—stable foundations for the work.
आ॒दि॒त्यासः॑ । अदि॑तयः । स्या॒म॒ । पूः । दे॒व॒ऽत्रा । व॒स॒वः॒ । म॒र्त्य॒ऽत्रा । सने॑म । मि॒त्रा॒व॒रु॒णा॒ । सन॑न्तः । भवे॑म । द्या॒वा॒पृ॒थि॒वी॒ । भव॑न्तः ॥आदित्यासः । अदितयः । स्याम । पूः । देवत्रा । वसवः । मर्त्यत्रा । सनेम । मित्रावरुणा । सनन्तः । भवेम । द्यावापृथिवी । भवन्तः ॥ādityāsaḥ | aditayaḥ | syāma | pūḥ | deva-trā | vasavaḥ | martya-trā | sanema | mitrāvaruṇā | sanantaḥ | bhavema | dyāvāpṛthivī | bhavantaḥ