Sukta 7.5
स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः । त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन् ॥
स जाय॑मानः पर॒मे व्यो॑मन्वा॒युर्न पाथ॒: परि॑ पासि स॒द्यः । त्वं भुव॑ना ज॒नय॑न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥
sá jā́yamānaḥ paramé vyòman vāyúr ná pā́thaḥ pári pāsi sadyáḥ | tváṃ bhúvanā janáyann abhí kránn ápatyāya jāta-vedo daśasyán ||
He, being born in the highest wideness, guards the path at once like the Wind that moves everywhere. Thou bringest the worlds to birth and pressest forward, O Jātavedas, serving the growth of the offspring—nurturing the soul’s continuance in the light.
सः । जाय॑मानः । प॒र॒मे । विऽओ॑मन् । वा॒युः । न । पाथः॑ । परि॑ । पा॒सि॒ । स॒द्यः । त्वम् । भुव॑ना । ज॒नय॑न् । अ॒भि । ऋ॒न् । अप॑त्याय । जा॒त॒ऽवे॒दः॒ । द॒श॒स्यन् ॥सः । जायमानः । परमे । विओमन् । वायुः । न । पाथः । परि । पासि । सद्यः । त्वम् । भुवना । जनयन् । अभि । ऋन् । अपत्याय । जातवेदः । दशस्यन् ॥saḥ | jāyamānaḥ | parame | vi-oman | vāyuḥ | na | pāthaḥ | pari | pāsi | sadyaḥ | tvam | bhuvanā | janayan | abhi | ṛn | apatyāya | jāta-vedaḥ | daśasyan