Sukta 7.5
त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषन्त । त्वं दस्यूँरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय ॥
त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षन्त॑ । त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥
tve asuryám vasavo ní ṛṇvan krátuṃ hí te mitra-maho juṣánta | tváṃ dasyū́ṃr ókaso agna ā́ja urú jyótiḥ janáyan ā́ryāya ||
In thee the Vasus set the sovereign might; for thy will of action the great-friended powers take delight. Thou drivest out the Dasyus from their seats, O Agni the racer, bringing into birth a wide Light for the Arya— for the soul that chooses the upward law.
त्वे इति॑ । अ॒सु॒र्य॑म् । वस॑वः । नि । ऋ॒ण्व॒न् । क्रतु॑म् । हि । ते॒ । मि॒त्र॒ऽम॒हः॒ । जु॒षन्त॑ । त्वम् । दस्यू॑न् । ओक॑सः । अ॒ग्ने॒ । आ॒जः॒ । उ॒रु । ज्योतिः॑ । ज॒नय॑न् । आर्या॑य ॥त्वे इति । असुर्यम् । वसवः । नि । ऋण्वन् । क्रतुम् । हि । ते । मित्रमहः । जुषन्त । त्वम् । दस्यून् । ओकसः । अग्ने । आजः । उरु । ज्योतिः । जनयन् । आर्याय ॥tve iti | asuryam | vasavaḥ | ni | ṛṇvan | kratum | hi | te | mitra-mahaḥ | juṣanta | tvam | dasyūn | okasaḥ | agne | ājaḥ | uru | jyotiḥ | janayan | āryāya