Sukta 7.5
त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि । वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ॥
त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि । वैश्वा॑नर पू॒रवे॒ शोशु॑चान॒: पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥
tvád-bhiyā́ víśa ā́yan ásiknīr asamanā́ jahatī́r bhójanāni | vaiśvānara pūráve śóśucānaḥ púro yád agne daráyan ádīdeḥ ||
By thy dread power the peoples moved; the dark and discordant forces abandoned their enjoyments. O Vaiśvānara, flaming for Pūru, when thou didst rend the strongholds, O Agni, thou didst blaze forth—clearing the way for the soul’s rightful habitation.
त्वत् । भि॒या । विशः॑ । आ॒य॒न् । असि॑क्नीः । अ॒स॒म॒नाः । जह॑तीः । भोज॑नानि । वैश्वा॑नर । पू॒रवे॑ । शोशु॑चानः । पुरः॑ । यत् । अ॒ग्ने॒ । द॒रय॑न् । अदी॑देः ॥त्वत् । भिया । विशः । आयन् । असिक्नीः । असमनाः । जहतीः । भोजनानि । वैश्वानर । पूरवे । शोशुचानः । पुरः । यत् । अग्ने । दरयन् । अदीदेः ॥tvat | bhiyā | viśaḥ | āyan | asiknīḥ | asamanāḥ | jahatīḥ | bhojanāni | vaiśvānara | pūrave | śośucānaḥ | puraḥ | yat | agne | darayan | adīdeḥ