Sukta 7.5
तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त । त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥
तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचन्त । त्वं भा॒सा रोद॑सी॒ आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥
táva tri-dhā́tu pṛthivī́ utá dyáur vaiśvānara vratám agne sacanta | tváṃ bhāsā́ rodasī́ ā́ tatanthā́jasreṇa śóciṣā́ śóśucānaḥ ||
Thy threefold-ordered law, O Vaiśvānara, is followed by Earth and Heaven. With thy light thou hast stretched out the two worlds, blazing with unceasing flame—establishing the wide frame for the soul’s true order.
तव॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वी । उ॒त । द्यौः । वैश्वा॑नर । व्र॒तम् । अ॒ग्ने॒ । स॒च॒न्त॒ । त्वम् । भा॒सा । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ । अज॑स्रेण । शो॒चिषा॑ । शोशु॑चानः ॥तव । त्रिधातु । पृथिवी । उत । द्यौः । वैश्वानर । व्रतम् । अग्ने । सचन्त । त्वम् । भासा । रोदसी इति । आ । ततन्थ । अजस्रेण । शोचिषा । शोशुचानः ॥tava | tri-dhātu | pṛthivī | uta | dyauḥ | vaiśvānara | vratam | agne | sacanta | tvam | bhāsā | rodasī iti | ā | tatantha | ajasreṇa | śociṣā | śośucānaḥ