Sukta 7.5
पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभः स्तियानाम् । स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥
पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिन्धू॑नां वृष॒भः स्तिया॑नाम् । स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥
pṛṣṭó diví dhāyy agníḥ pṛthivyā́ṃ netā́ síndhūnāṃ vṛṣabháḥ stiyā́nām | sá mā́nuṣīr abhí víśo ví bhāti vaiśvānaró vāvṛdhānó váreṇa ||
Established aloft in the luminous heaven, Agni is set; on earth he becomes the Leader of the currents and the strong Bull of the firm foundations. He shines out over the human peoples—Vaiśvānara, increasing by the chosen excellence, widening the field of the soul’s light.
पृ॒ष्टः । दि॒वि । धायि॑ । अ॒ग्निः । पृ॒थि॒व्याम् । ने॒ता । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् । सः । मानु॑षीः । अ॒भि । विशः॑ । वि । भा॒ति॒ । वै॒श्वा॒न॒रः । व॒वृ॒धा॒नः । वरे॑ण ॥पृष्टः । दिवि । धायि । अग्निः । पृथिव्याम् । नेता । सिन्धूनाम् । वृषभः । स्तियानाम् । सः । मानुषीः । अभि । विशः । वि । भाति । वैश्वानरः । ववृधानः । वरेण ॥pṛṣṭaḥ | divi | dhāyi | agniḥ | pṛthivyām | netā | sindhūnām | vṛṣabhaḥ | stiyānām | saḥ | mānuṣīḥ | abhi | viśaḥ | vi | bhāti | vaiśvānaraḥ | vavṛdhānaḥ | vareṇa