Sukta 7.5
प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः । यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥
प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः । यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भि॑: ॥
prā́gnáye taváse bharadhvaṃ gíraṃ divó aratáye pṛthivyā́ḥ | yó víśveṣām amṛ́tānām upásthe vaiśvānaráḥ vāvṛdhé jāgṛvád-bhiḥ ||
Bring forward the word to Agni the strong, the mover of heaven and earth; he who in the lap of all the immortals, as Vaiśvānara, grows by the wakeful ones—by those who keep the inner fire vigilant.
प्र । अ॒ग्नये॑ । त॒वसे॑ । भ॒र॒ध्व॒म् । गिर॑म् । दि॒वः । अ॒र॒तये॑ । पृ॒थि॒व्याः । यः । विश्वे॑षाम् । अ॒मृता॑नाम् । उ॒पऽस्थे॑ । वै॒श्वा॒न॒रः । व॒वृ॒धे । जा॒गृ॒वत्ऽभिः॑ ॥प्र । अग्नये । तवसे । भरध्वम् । गिरम् । दिवः । अरतये । पृथिव्याः । यः । विश्वेषाम् । अमृतानाम् । उपस्थे । वैश्वानरः । ववृधे । जागृवत्भिः ॥pra | agnaye | tavase | bharadhvam | giram | divaḥ | arataye | pṛthivyāḥ | yaḥ | v iśveṣām | amṛtānām | upa-sthe | vaiśvānaraḥ | vavṛdhe | jāgṛvat-bhiḥ