Sukta 7.47
शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः । ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत ॥
श॒तप॑वित्राः स्व॒धया॒ मद॑न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथ॑: । ता इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥
śatá-pavitrāḥ svadháyā mádantīr devī́r devā́nām ápi yanti pā́thaḥ | tā́ índrasya ná minanti vratā́ni síndhubhyo havyaṃ ghṛtávaj juhota ||
The goddesses, hundred-fold in their purifying strain, rejoicing by their own innate power, move along the path of the gods. They do not violate Indra’s laws of right working. Offer the oblation, rich as ghee, to the rivers.
श॒तऽप॑वित्राः । स्व॒धया॑ । मद॑न्तीः । दे॒वीः । दे॒वाना॑म् । अपि॑ । य॒न्ति॒ । पाथः॑ । ताः । इन्द्र॑स्य । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । सिन्धु॑ऽभ्यः । ह॒व्यम् । घृ॒तऽव॑त् । जु॒हो॒त॒ ॥शतपवित्राः । स्वधया । मदन्तीः । देवीः । देवानाम् । अपि । यन्ति । पाथः । ताः । इन्द्रस्य । न । मिनन्ति । व्रतानि । सिन्धुभ्यः । हव्यम् । घृतवत् । जुहोत ॥śata-pavitrāḥ | svadhayā | madantīḥ | devīḥ | devānām | api | yanti | pāthaḥ | tāḥ | indrasya | na | minanti | vratāni | sindhu-bhyaḥ | havyam | ghṛta-vat | juhota