Sukta 7.47
तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा । यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य ॥
तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑ । यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यन्तो॑ वो अ॒द्य ॥
tám ū́rmim ā́po mádhumattamaṃ vo’pā́ṃ napād avatu āśuhemā́ | yásmin índro vásubhir mā́dayāte tám aśyāma deváyanto vo adyá ||
O Waters, may Apāṃ Napāt, swift in his golden movement, protect for you that wave most rich in sweetness. That (wave) in which Indra exults with the Vasus—may we, aspiring to the Divine, attain it today through you.
तम् । ऊ॒र्मिम् । आ॒पः॒ । मधु॑मत्ऽतमम् । वः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । आ॒शु॒ऽहेमा॑ । यस्मि॑न् । इन्द्रः॑ । वसु॑ऽभिः । मा॒दया॑ते । तम् । अ॒श्या॒म॒ । दे॒व॒ऽयन्तः॑ । वः॒ । अ॒द्य ॥तम् । ऊर्मिम् । आपः । मधुमत्तमम् । वः । अपाम् । नपात् । अवतु । आशुहेमा । यस्मिन् । इन्द्रः । वसुभिः । मादयाते । तम् । अश्याम । देवयन्तः । वः । अद्य ॥tam | ūrmim | āpaḥ | madhumat-tamam | vaḥ | apām | napāt | avatu | āśu-hemā | yasmin | indraḥ | vasu-bhiḥ | mādayāte | tam | aśyāma | deva-yantaḥ | vaḥ | adya