Sukta 7.47
याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद्गातुमूर्मिम् । ते सिन्धवो वरिवो धातना नो यूयं पात स्वस्तिभिः सदा नः ॥
याः सूर्यो॑ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इन्द्रो॒ अर॑दद्गा॒तुमू॒र्मिम् । ते सि॑न्धवो॒ वरि॑वो धातना नो यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
yā́ḥ sū́ryo raśmíbhir ātatā́na yā́bhya índro áradad gātúm ū́rmim | té síndhavo várīvo dhātana no yūyám pāta svastíbhiḥ sadā́ naḥ ||
You waters whom Sūrya has stretched out with his rays, and by whom Indra has carved a passage and a wave—O rivers, establish for us a wide free space. Guard us always with your well-being.
याः । सूर्यः॑ । र॒श्मिऽभिः॑ । आ॒ऽत॒तान॑ । याभ्यः॑ । इन्द्रः॑ । अर॑दत् । गा॒तुम् । ऊ॒र्मिम् । ते । सि॒न्ध॒वः॒ । वरि॑वः । धा॒त॒न॒ । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥याः । सूर्यः । रश्मिभिः । आततान । याभ्यः । इन्द्रः । अरदत् । गातुम् । ऊर्मिम् । ते । सिन्धवः । वरिवः । धातन । नः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥yāḥ | sūryaḥ | raśmi-bhiḥ | ātatāna | yābhyaḥ | indraḥ | aradat | gātum | ūrmim | te | sindhavaḥ | varivaḥ | dhātana | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ