Sukta 7.45
स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि । विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ॥
स घा॑ नो दे॒वः स॑वि॒ता स॒हावा सा॑विष॒द्वसु॑पति॒र्वसू॑नि । वि॒श्रय॑माणो अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ॥
sá ghā no deváḥ savitā́ sahā́vā sāviṣád vásu-patir vásūni | viśráyamāṇo ámatim urūcī́ṃ marta-bhójanam ádha rāsate naḥ ||
May Savitṛ the god, the strong helper, impel for us the riches as lord of plenitudes. Spreading wide the luminous intelligence, he then gives us the nourishment that sustains the mortal being.
सः । घ॒ । नः॒ । दे॒वः । स॒वि॒ता । स॒हऽवा॑ । आ । सा॒वि॒ष॒त् । वसु॑ऽपतिः । वसू॑नि । वि॒ऽश्रय॑माणः । अ॒मति॑म् । उ॒रू॒चीम् । म॒र्त॒ऽभोज॑नम् । अध॑ । रा॒स॒ते॒ । नः॒ ॥सः । घ । नः । देवः । सविता । सहवा । आ । साविषत् । वसुपतिः । वसूनि । विश्रयमाणः । अमतिम् । उरूचीम् । मर्तभोजनम् । अध । रासते । नः ॥saḥ | gha | naḥ | devaḥ | savitā | saha-vā | ā | sāviṣat | vasu-patiḥ | vasūni | vi-śrayamāṇaḥ | amatim | urūcīm | marta-bhojanam | adha | rāsate | naḥ