Sukta 7.45
उदस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्ताँ अनष्टाम् । नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम् ॥
उद॑स्य बा॒हू शि॑थि॒रा बृ॒हन्ता॑ हिर॒ण्यया॑ दि॒वो अन्ताँ॑ अनष्टाम् । नू॒नं सो अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒ अनु॑ दादप॒स्याम् ॥
úd asya bāhū́ śithirā́ bṛhántā hiraṇyáyā divó ántā̃ anāṣṭām | nūnáṃ só asya mahimā́ paniṣṭa sū́raś cid asmā́ ánu dād apasyā́m ||
Uplifted are his two wide, unbinding arms, golden, reaching to the ends of heaven. Now indeed his greatness is manifest; even the Sun follows after him in the giving of the right works of power.
उत् । अ॒स्य॒ । बा॒हू इति॑ । शि॒थि॒रा । बृ॒हन्ता॑ । हि॒र॒ण्यया॑ । दि॒वः । अन्ता॑न् । अ॒न॒ष्टा॒म् । नू॒नम् । सः । अ॒स्य॒ । म॒हि॒मा । प॒नि॒ष्ट॒ । सूरः॑ । चि॒त् । अ॒स्मै॒ । अनु॑ । दा॒त् । अ॒प॒स्याम् ॥उत् । अस्य । बाहू इति । शिथिरा । बृहन्ता । हिरण्यया । दिवः । अन्तान् । अनष्टाम् । नूनम् । सः । अस्य । महिमा । पनिष्ट । सूरः । चित् । अस्मै । अनु । दात् । अपस्याम् ॥ut | asya | bāhū iti | śithirā | bṛhantā | hiraṇyayā | divaḥ | antān | anaṣṭām | nūnam | saḥ | asya | mahimā | paniṣṭa | sūraḥ | cit | asmai | anu | dāt | apasyām