Sukta 7.45
इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम् । चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः ॥
इ॒मा गिर॑: सवि॒तारं॑ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिम् । चि॒त्रं वयो॑ बृ॒हद॒स्मे द॑धातु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
imā́ gíraḥ savitā́raṃ sujíhvaṃ pūrṇá-gabhastim īḷate su-pā́ṇim | citráṃ váyo bṛhád asmé dadhātu yūyáṃ pāta svastí-bhiḥ sádā naḥ ||
These words of ours adore Savitṛ of the good tongue, of full hands, of the fair hands of giving. May he place in us a bright and vast vitality of being; and may you (all powers) guard us always with well-being.
इ॒माः । गिरः॑ । स॒वि॒तार॑म् । सु॒ऽजि॒ह्वम् । पू॒र्णऽग॑भस्तिम् । ई॒ळ॒ते॒ । सु॒ऽपा॒णिम् । चि॒त्रम् । वयः॑ । बृ॒हत् । अ॒स्मे इति॑ । द॒धा॒तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥इमाः । गिरः । सवितारम् । सुजिह्वम् । पूर्णगभस्तिम् । ईळते । सुपाणिम् । चित्रम् । वयः । बृहत् । अस्मे इति । दधातु । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥imāḥ | giraḥ | savitāram | su-jihvam | pūrṇa-gabhastim | īḷate | su-pāṇim | citram | vayaḥ | bṛhat | asme iti | dadhātu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ