Sukta 7.45
आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः । हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम ॥
आ दे॒वो या॑तु सवि॒ता सु॒रत्नो॑ऽन्तरिक्ष॒प्रा वह॑मानो॒ अश्वै॑: । हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ निवे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ ॥
ā devó yātu savitā́ su-rátnō ’ntárikṣa-prā́ váhamāno áśvaiḥ | háste dádhāno náryā purū́ṇi niveśáyañ ca prásuvañ ca bhū́ma ||
Let Savitṛ, the divine Impeller rich in true treasures, come to us, moving through the mid-world with his steeds. Holding in his hand many boons for the human soul, may he settle us in the right dwelling and set us forth on the true sending-forth of our works.
आ । दे॒वः । या॒तु॒ । स॒वि॒ता । सु॒ऽरत्नः॑ । अ॒न्त॒रि॒क्ष॒ऽप्राः । वह॑मानः । अश्वैः॑ । हस्ते॑ । दधा॑नः । नर्या॑ । पु॒रूणि॑ । नि॒ऽवे॒शय॑न् । च॒ । प्र॒ऽसु॒वन् । च॒ । भूम॑ ॥आ । देवः । यातु । सविता । सुरत्नः । अन्तरिक्षप्राः । वहमानः । अश्वैः । हस्ते । दधानः । नर्या । पुरूणि । निवेशयन् । च । प्रसुवन् । च । भूम ॥ā | devaḥ | yātu | savitā | su-ratnaḥ | antarikṣa-prāḥ | vahamānaḥ | aśvaiḥ | haste | dadhānaḥ | naryā | purūṇi | ni-veśayan | ca | pra-suvan | ca | bhūma