Sukta 7.42
इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कृधी नः । आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणा यजेह ॥
इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विन्द्रे॑ य॒शसं॑ कृधी नः । आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शन्ता॑ मि॒त्रावरु॑णा यजे॒ह ॥
imáṃ no agne adhvaráṃ juṣasva marútsv índre yaśásaṃ kṛdhī naḥ | ā́ naktā́ barhíḥ sadatām uṣā́sóśántā mitrā́varuṇā yajehá ||
Accept for us, O Agni, this unbroken offering; among the Maruts and with Indra make it for us full of glory. Let Night and Dawn sit upon the sacred seat; worship here Mitra and Varuṇa, the two who desire the right order.
इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । म॒रुत्ऽसु॑ । इन्द्रे॑ । य॒शस॑म् । कृ॒धि॒ । नः॒ । आ । नक्ता॑ । ब॒र्हिः । स॒द॒ता॒म् । उ॒षसा॑ । उ॒शन्ता॑ । मि॒त्रावरु॑णा । य॒ज॒ । इ॒ह ॥इमम् । नः । अग्ने । अध्वरम् । जुषस्व । मरुत्सु । इन्द्रे । यशसम् । कृधि । नः । आ । नक्ता । बर्हिः । सदताम् । उषसा । उशन्ता । मित्रावरुणा । यज । इह ॥imam | naḥ | agne | adhvaram | juṣasva | marut-su | indre | yaśasam | kṛdhi | naḥ | ā | naktā | barhiḥ | sadatām | uṣasā | uśantā | mitrāvaruṇā | yaja | iha