Sukta 7.42
एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् । इषं रयिं पप्रथद्वाजमस्मे यूयं पात स्वस्तिभिः सदा नः ॥
ए॒वाग्निं स॑ह॒स्यं१॒॑ वसि॑ष्ठो रा॒यस्का॑मो वि॒श्वप्स्न्य॑स्य स्तौत् । इषं॑ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
evā́gniṁ sahasyàṁ váṣiṣṭho rāyáskāmo viśvápsnyasyá staut | íṣaṁ rayíṁ paprathád vā́jam asmè yūyáṁ pāta svastíbhíḥ sadā́ naḥ ||
Thus Vasiṣṭha, desiring the fullness of being, has praised Agni the puissant, the one of all-effective workings. May he widen for us the impulsion and the inner riches, and the plenitude of force; you Powers, guard us always with your harmonies of well-being.
ए॒व । अ॒ग्निम् । स॒ह॒स्य॑म् । वसि॑ष्ठः । रा॒यःऽका॑मः । वि॒श्वऽप्स्न्य॑स्य । स्तौ॒त् । इष॑म् । र॒यिम् । प॒प्र॒थ॒त् । वाज॑म् । अ॒स्मे इति॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एव । अग्निम् । सहस्यम् । वसिष्ठः । रायःकामः । विश्वप्स्न्यस्य । स्तौत् । इषम् । रयिम् । पप्रथत् । वाजम् । अस्मे इति । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥eva | agnim | sahasyam | vasiṣṭhaḥ | rāyaḥ-kāmaḥ | viśva-psnyasya | staut | iṣam | rayim | paprathat | vājam | asme iti | yūyam | pāta | svasti-bhiḥ | sadā | naḥ