Sukta 7.42
यदा वीरस्य रेवतो दुरोणे स्योनशीरतिथिराचिकेतत् । सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै ॥
य॒दा वी॒रस्य॑ रे॒वतो॑ दुरो॒णे स्यो॑न॒शीरति॑थिरा॒चिके॑तत् । सुप्री॑तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिय॑त्यै ॥
yadā vī́rasya revató duroṇé syónáśīr átithir ācíketat | suprī́to agníḥ sudhíto dámé ā́ sá viśé dāti vā́ryam íyatyai ||
When, in the house of the strong and affluent one, the guest who brings a happy dwelling is recognized, then Agni—well-pleased, well-set in the home—gives to the people the desirable riches for their advancing journey.
य॒दा । वी॒रस्य॑ । रे॒वतः॑ । दु॒रो॒णे । स्यो॒न॒ऽशीः । अति॑थिः । आ॒ऽचिके॑तत् । सुऽप्री॑तः । अ॒ग्निः । सुऽधि॑तः । दमे॑ । आ । सः । वि॒शे । दा॒ति॒ । वार्य॑म् । इय॑त्यै ॥यदा । वीरस्य । रेवतः । दुरोणे । स्योनशीः । अतिथिः । आचिकेतत् । सुप्रीतः । अग्निः । सुधितः । दमे । आ । सः । विशे । दाति । वार्यम् । इयत्यै ॥yadā | vīrasya | revataḥ | duroṇe | syona-śīḥ | atithiḥ | āciketat | su-prītaḥ | agn iḥ | su-dhitaḥ | dame | ā | saḥ | viśe | dāti | vāryam | iyatyai