Sukta 7.42
सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च । ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥
सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ यु॒क्ष्वा सु॒ते ह॒रितो॑ रो॒हित॑श्च । ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥
sugás te agne sánavitto ádhvā yukṣvā suté hárito róhitaś ca | yé vā sádmann aruṣā́ vīravā́ho huv́e devā́nāṃ jánimāni sattáḥ ||
Fair is your path, O Agni, the way that wins the treasure. Yoke, at the pressing, the tawny and the ruddy powers. Whether those ruddy ones are in the home, bearers of heroic force—I call, as one seated in the rite, the births and manifestations of the gods.
सु॒ऽगः । ते॒ । अ॒ग्ने॒ । सन॑ऽवित्तः । अध्वा॑ । यु॒क्ष्व । सु॒ते । ह॒रितः॑ । रो॒हितः॑ । च॒ । ये । वा॒ । सद्म॑न् । अ॒रु॒षाः । वी॒र॒ऽवाहः॑ । हु॒वे । दे॒वाना॑म् । जनि॑मानि । स॒त्तः ॥सुगः । ते । अग्ने । सनवित्तः । अध्वा । युक्ष्व । सुते । हरितः । रोहितः । च । ये । वा । सद्मन् । अरुषाः । वीरवाहः । हुवे । देवानाम् । जनिमानि । सत्तः ॥su-gaḥ | te | agne | sana-vittaḥ | adhvā | yukṣva | sute | haritaḥ | rohitaḥ | ca | ye | vā | sadman | aruṣāḥ | vīra-vāhaḥ | huve | devānām | janimāni | sattaḥ