Sukta 7.41
भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥
भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥
bhága evá bhágavāṃ astu devā́s ténā vayáṃ bhágavantaḥ syāma | táṃ tvā bhaga sárva íj johavīti sá no bhaga puraetā́ bhavehá ||
Let Bhaga himself be the god who is full of the divine portion; by that may we too become possessed of the portion. You, O Bhaga, whom everyone indeed calls—be here for us the one who goes in front, the pioneer of the way.
भगः॑ । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒वाः॒ । तेन॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ । तम् । त्वा॒ । भ॒ग॒ । सर्वः॑ । इत् । जो॒ह॒वी॒ति॒ । सः । नः॒ । भ॒ग॒ । पु॒रः॒ऽए॒ता । भ॒व॒ । इ॒ह ॥भगः । एव । भगवान् । अस्तु । देवाः । तेन । वयम् । भगवन्तः । स्याम । तम् । त्वा । भग । सर्वः । इत् । जोहवीति । सः । नः । भग । पुरःएता । भव । इह ॥bhagaḥ | eva | bhaga-vān | astu | devāḥ | tena | vayam | bhaga-vantaḥ | syāma | tam | tvā | bhaga | sarvaḥ | it | johavīti | saḥ | naḥ | bhaga | puraḥ-etā | bhava | iha