Sukta 7.41
उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् । उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
utédānīṃ bhágavantaḥ syāmóta prápitva utá mádhye áhnām | utóditā maghavantsū́ryasya vayáṃ devā́nāṃ sumatáu syāma ||
May we be even now possessed of the divine portion; and may we be so in the forward march, and in the middle of the days. And at the sun’s uprising, O givers of plenitude, may we dwell in the happy and luminous consent of the gods.
उत॑ । इ॒दानी॑म् । भग॑ऽवन्तः । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् । उ॒त । उत्ऽइ॑ता । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥उत । इदानीम् । भगवन्तः । स्याम । उत । प्रपित्वे । उत । मध्ये । अह्नाम् । उत । उत्इता । मघवन् । सूर्यस्य । वयम् । देवानाम् । सुमतौ । स्याम ॥uta | idānīm | bhaga-vantaḥ | syāma | uta | pra-pitve | uta | madhye | ahnām | uta | ut-itā | magha-van | sūryasya | vayam | devānām | su-matau | syāma