Sukta 7.41
भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः । भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्त॑: स्याम ॥
bhaga praṇétar bhaga satyárādho bhágemā́ṃ dhíyam úd avā́ dádann naḥ | bhaga prá no janaya góbhir áśvair bhaga prá nṛ́bhir nṛvántāḥ syāma ||
O Bhaga, our leader and guide, O Bhaga whose giving is true and right—lift up and bring forth in us this inspired thought. O Bhaga, generate us forward with rays of light and with the swift energies; O Bhaga, may we become rich in the powers of true humanity, full of the force of the soul.
भग॑ । प्रऽने॑त॒रिति॒ प्रऽने॑तः । भग॑ । सत्य॑ऽराधः । भग॑ । इ॒माम् । धिय॑म् । उत् । अ॒व॒ । दद॑त् । नः॒ । भग॑ । प्र । नः॒ । ज॒न॒य॒ । गोभिः॑ । अश्वैः॑ । भग॑ । प्र । नृऽभिः॑ । नृ॒ऽवन्तः॑ । स्या॒म॒ ॥भग । प्रनेतरिति प्रनेतः । भग । सत्यराधः । भग । इमाम् । धियम् । उत् । अव । ददत् । नः । भग । प्र । नः । जनय । गोभिः । अश्वैः । भग । प्र । नृभिः । नृवन्तः । स्याम ॥bhaga | pra-netaritipra-netaḥ | bhaga | satya-rādhaḥ | bhaga | imām | dhiyam | ut | ava | dadat | naḥ | bhaga | pra | naḥ | janaya | gobhiḥ | aśvaiḥ | bhaga | pra | nṛ-bhiḥ | nṛ-vantaḥ | syāma