Sukta 7.41
प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥
prā́tarjitaṃ bhágam ugráṃ huvema vayáṃ putrám aditéryo vidhartā́ | ā́dhraś cid yáṃ manyámānas turáś cid rājā́ cid yáṃ bhágaṃ bhakṣī́ty ā́ha ||
At dawn we call Bhaga, the victor of the morning, the formidable—Aditi’s son who upholds the worlds. Even the needy man who thinks of him, even the strong, even the king, says of that Bhaga: ‘May I partake.’ So too may we partake of the soul’s rightful portion of delight and increase.
प्रा॒तः॒ऽजित॑म् । भग॑म् । उ॒ग्रम् । हु॒वे॒म॒ । व॒यम् । पु॒त्रम् । अदि॑तेः । यः । वि॒ऽध॒र्ता । आ॒ध्रः । चि॒त् । यम् । मन्य॑मानः । तु॒रः । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥प्रातःजितम् । भगम् । उग्रम् । हुवेम । वयम् । पुत्रम् । अदितेः । यः । विधर्ता । आध्रः । चित् । यम् । मन्यमानः । तुरः । चित् । राजा । चित् । यम् । भगम् । भक्षि । इति । आह ॥prātaḥ-jitam | bhagam | ugram | huvema | vayam | putram | aditeḥ | yaḥ | vi-dhatār | ādhraḥ | cit | yam | manyamānaḥ | turaḥ | cit | rājā | cit | yam | bhagam | bhakṣi | it i | āha