Sukta 7.41
प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥
prā́tar agníṃ prā́tar índraṃ havāmahe prā́tar mitrā́varuṇā prā́tar aśvínā | prā́tar bhágaṃ pū́ṣaṇaṃ bráhmaṇas pátiṃ prā́taḥ sómam utá rudráṃ huvema ||
At dawn we call Agni, at dawn we call Indra; at dawn Mitra and Varuṇa, at dawn the Aśvins. At dawn we call Bhaga, Pūṣan, and Brahmaṇaspati; at dawn we call Soma, and also Rudra—so that the whole being may be set in right motion at the day’s beginning.
प्रा॒तः । अ॒ग्निम् । प्र॒तः । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्र॒तः । मि॒त्रावरु॑णा । प्रा॒तः । अ॒श्विना॑ । प्र॒तः । भग॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । प्र॒तः । सोम॑म् । उ॒त । रु॒द्रम् । हु॒वे॒म॒ ॥प्रातः । अग्निम् । प्रतः । इन्द्रम् । हवामहे । प्रतः । मित्रावरुणा । प्रातः । अश्विना । प्रतः । भगम् । पूषणम् । ब्रह्मणः । पतिम् । प्रतः । सोमम् । उत । रुद्रम् । हुवेम ॥prātaḥ | agnim | prataḥ | indram | havāmahe | prataḥ | mitrāvaruṇā | prātaḥ | aśvinā | prataḥ | bhagam | pūṣaṇam | brahmaṇaḥ | patim | prataḥ | somam | uta | rudram | huvema