Sukta 7.39
ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन् । धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ॥
र॒रे ह॒व्यं म॒तिभि॑र्य॒ज्ञिया॑नां॒ नक्ष॒त्कामं॒ मर्त्या॑ना॒मसि॑न्वन् । धाता॑ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये॑भि॒र्नु दे॒वैः ॥
raré havyáṃ matíbhir yajñiyā́nāṃ nákṣat kā́maṃ mártyānām ásinvan | dhā́tā rayím avidásyaṃ sadā́sāṃ sakṣī́mahi yujyébhir nú deváiḥ ||
He has given the offering to the worship-worthy through our thought-forms; he has fulfilled the desire of mortals without stint. May Dhātṛ establish for us the rayi that cannot be lost, abiding always; may we be able to accompany the gods who are to be joined (in yoga) now.
र॒रे । ह॒व्यम् । म॒तिऽभिः॑ । य॒ज्ञिया॑नाम् । नक्ष॑त् । काम॑म् । मर्त्या॑नाम् । असि॑न्वन् । धाता॑ । र॒यिम् । अ॒वि॒ऽद॒स्यम् । स॒दा॒ऽसाम् । स॒क्षी॒महि॑ । युज्ये॑भिः । नु । दे॒वैः ॥ररे । हव्यम् । मतिभिः । यज्ञियानाम् । नक्षत् । कामम् । मर्त्यानाम् । असिन्वन् । धाता । रयिम् । अविदस्यम् । सदासाम् । सक्षीमहि । युज्येभिः । नु । देवैः ॥rare | havyam | mati-bhiḥ | yajñiyānām | nakṣat | kāmam | martyānām | asinvan | dhātā | rayim | avi-dasyam | sadāsām | sakṣīmahi | yujyebhiḥ | nu | devaiḥ