Sukta 7.39
नू रोदसी अभिष्टुते वसिष्ठैॠतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥
नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैॠ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
nū rodasī abhiṣṭute vasiṣṭhaiḥ ṛtāvāno varuṇo mitro agniḥ | yacchantu candrā upamaṃ no arkaṃ yūyaṃ pāta svastíbhiḥ sadā naḥ ||
Now, when Heaven and Earth are invoked by the Vasiṣṭhas, may Varuṇa the upholder of the Truth, Mitra the harmoniser, and Agni the divine Will become present. Let the luminous powers grant us a supreme hymn of light; and you, O gods, guard us always with states of well-being and safe passage.
नु । रोद॑सी॒ इति॑ । अ॒भिस्तु॑ते॒ इत्य॒भिऽस्तु॑ते । वसि॑ष्ठैः । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः । यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । रोदसी इति । अभिस्तुते इत्यभिस्तुते । वसिष्ठैः । ऋतवानः । वरुणः । मित्रः । अग्निः । यच्छन्तु । चन्द्राः । उपमम् । नः । अर्कम् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥nu | rodasī iti | abhistuteity abhi-stute | vasiṣṭhaiḥ | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ