Sukta 7.39
ज्मया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः । अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥
ज्म॒या अत्र॒ वस॑वो रन्त दे॒वा उ॒राव॒न्तरि॑क्षे मर्जयन्त शु॒भ्राः । अ॒र्वाक्प॒थ उ॑रुज्रयः कृणुध्वं॒ श्रोता॑ दू॒तस्य॑ ज॒ग्मुषो॑ नो अ॒स्य ॥
jmayā́ átra vásavo ranta devā́ urā́v antárikṣe marjayanta śubhrā́ḥ | arvā́k pathá uru-jráyaḥ kṛṇudhvaṃ śrótā dūtásya jagmúṣo no asyá ||
Here on the earth-plane may the Vasus, the gods, take delight; shining, they purify in the wide mid-world. Make broad the downward path for us, O wide-striding ones; hear the messenger who has come to you from us.
ज्म॒याः । अत्र॑ । वस॑वः । र॒न्त॒ । दे॒वाः । उ॒रौ । अ॒न्तरि॑क्षे । म॒र्ज॒य॒न्त॒ । शु॒भ्राः । अ॒र्वाक् । प॒थः । उ॒रु॒ऽज्र॒यः॒ । कृ॒णु॒ध्व॒म् । श्रोता॑ । दू॒तस्य॑ । ज॒ग्मुषः॑ । नः॒ । अ॒स्य ॥ज्मयाः । अत्र । वसवः । रन्त । देवाः । उरौ । अन्तरिक्षे । मर्जयन्त । शुभ्राः । अर्वाक् । पथः । उरुज्रयः । कृणुध्वम् । श्रोता । दूतस्य । जग्मुषः । नः । अस्य ॥jmayāḥ | atra | vasavaḥ | ranta | devāḥ | urau | antarikṣe | marjayanta | śubhrāḥ | arvāk | pathaḥ | uru-jrayaḥ | kṛṇudhvam | śrotā | dūtasya | jagmuṣaḥ | naḥ | asya