Sukta 7.39
प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते । विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥
प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते । वि॒शाम॒क्तोरु॒षस॑: पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥
prá vāvṛje su-prayā́ bárhir eṣām ā́ viśpátīva bī́riṭa iyāte | viśā́m aktór uṣásaḥ pū́rva-hūtau vāyúḥ pū́ṣā svastáye niyutvā́n ||
The sacred seat (barhis) has been spread out in a fair order for them; like two lords of the clan they come to the firm place. For the peoples, at the meeting of Night and Dawn, first-invoked, Vāyu and Pūṣan arrive yoked for our well-being.
प्र । व॒वृजे॒ । सु॒ऽप्र॒या । ब॒र्हिः । ए॒षा॒म् । आ । वि॒श्पती॑ इ॒वेति वि॒श्पती॑ऽइव । बीरि॑टे । इ॒या॒ते॒ इति॑ । वि॒शाम् । अ॒क्तोः । उ॒षसः॑ । पू॒र्वऽहू॑तौ । वा॒युः । पू॒षा । स्व॒स्तये॑ । नि॒युत्वा॑न् ॥प्र । ववृजे । सुप्रया । बर्हिः । एषाम् । आ । विश्पती इवेति विश्पतीइव । बीरिटे । इयाते इति । विशाम् । अक्तोः । उषसः । पूर्वहूतौ । वायुः । पूषा । स्वस्तये । नियुत्वान् ॥pra | vavṛje | su-prayā | barhiḥ | eṣām | ā | viśpatīiveti viśpatī-iva | bīriṭe | iyāteiti | viśām | aktoḥ | uṣasaḥ | pūrva-hūtau | vāyuḥ | pūṣā | svastaye | niyutvān