Sukta 7.39
ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत्प्रतीची जूर्णिर्देवतातिमेति । भेजाते अद्री रथ्येव पन्थामृतं होता न इषितो यजाति ॥
ऊ॒र्ध्वो अ॒ग्निः सु॑म॒तिं वस्वो॑ अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता॑तिमेति । भे॒जाते॒ अद्री॑ र॒थ्ये॑व॒ पन्था॑मृ॒तं होता॑ न इषि॒तो य॑जाति ॥
ūrdhvó agníḥ su-matíṃ vásvo aśret pratīcī́ jūrṇír deva-tātím eti | bhejā́te ádrī rathyéva pánthām ṛtáṃ hótā na iṣitó yajāti ||
Uplifted, Agni has leaned toward the right thought of the Good; the returning flame-current moves toward the divine assembly. Like two pressing-stones taking the chariot-road, the Hotṛ, impelled, performs for us the sacrifice in the Truth (ṛta) and the immortality.
ऊ॒र्ध्वः । अ॒ग्निः । सु॒ऽम॒तिम् । वस्वः॑ । अ॒श्रे॒त् । प्र॒ती॒ची । जू॒र्णिः । दे॒वऽता॑तिम् । ए॒ति॒ । भे॒जाते॑ । अद्री॒ इति॑ । र॒थ्या॑ऽइव । पन्था॑म् । ऋ॒तम् । होता॑ । नः॒ । इ॒षि॒तः । य॒जा॒ति॒ ॥ऊर्ध्वः । अग्निः । सुमतिम् । वस्वः । अश्रेत् । प्रतीची । जूर्णिः । देवतातिम् । एति । भेजाते । अद्री इति । रथ्याइव । पन्थाम् । ऋतम् । होता । नः । इषितः । यजाति ॥ūrdhvaḥ | agniḥ | su-matim | vasvaḥ | aśret | pratīcī | jūrṇiḥ | deva-tātim | eti | bhejāte | adrī iti | rathyāiva | panthām | ṛtam | hotā | naḥ | iṣitaḥ | yajāti