Sukta 7.38
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः ॥
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥
śáṃ no bhavantu vājíno háveṣu deva-tātā mitá-dravaḥ svarkā́ḥ | jambháyanto ’híṃ vṛ́kaṃ rákṣāṃsi sá-nemi asmad yuyavann ámīvāḥ ||
May the strong ones be for our good in our calls—god-nurtured, measured in their onset, bearers of the sun-bright light. Crushing the serpent-force and the wolfish devourer and the hostile powers, with one wheel-rim of unity may they drive far from us the afflictions.
शम् । नः॒ । भ॒व॒न्तु॒ । वा॒जिनः॑ । हवे॑षु । दे॒वऽता॑ता । मि॒तऽद्र॑वः । सु॒ऽअ॒र्काः । ज॒म्भय॑न्तः । अहि॑म् । वृक॑म् । रक्षां॑सि । सऽने॑मि । अ॒स्मत् । यु॒य॒व॒न् । अमी॑वाः ॥शम् । नः । भवन्तु । वाजिनः । हवेषु । देवताता । मितद्रवः । सुअर्काः । जम्भयन्तः । अहिम् । वृकम् । रक्षांसि । सनेमि । अस्मत् । युयवन् । अमीवाः ॥śam | naḥ | bhavantu | vājinaḥ | haveṣu | deva-tātā | mita-dravaḥ | su-arkāḥ | jambhayantaḥ | ahim | vṛkam | rakṣāṃsi | sa-nemi | asmat | yuyavan | amīvāḥ