Sukta 7.38
वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः । अ॒स्य मध्व॑: पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑: ॥
vā́je-vā́je ’vata vājino no dháneṣu viprā amṛtā ṛta-jñā́ḥ | asyá mádhvaḥ pibata mā́dayadhvaṃ tṛptā́ yāta pathíbhiḥ deva-yā́naiḥ ||
In every surge of plenitude, help us, O powers of vāja, in our gains—O seers, deathless, knowers of the Truth-Order. Drink of this honeyed essence and grow glad; satisfied, travel by the godward paths (the inner ways of ascent and descent).
वाजे॑ऽवाजे । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने॑षु । वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒ऽज्ञाः॒ । अ॒स्य । मध्वः॑ । पि॒ब॒त॒ । मा॒दय॑ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥वाजेवाजे । अवत । वाजिनः । नः । धनेषु । विप्राः । अमृताः । ऋतज्ञाः । अस्य । मध्वः । पिबत । मादयध्वम् । तृप्ताः । यात । पथिभिः । देवयानैः ॥vāje--vāje | avata | vājinaḥ | naḥ | dhaneṣu | viprāḥ | amṛtāḥ | ṛta-jñāḥ | asya | madhvaḥ | pibata | mādayadhvam | tṛptāḥ | yāta | pathi-bhiḥ | deva-yānaiḥ