Sukta 7.38
अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः । भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥
अनु॒ तन्नो॒ जास्पति॑र्मंसीष्ट॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नः । भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्न॑म् ॥
ánu tán no jā́spátir maṃsīṣṭa rátnam devásya savitúr iyānáḥ | bhágam ugró ’váse jóhavīti bhágam anúgro ádha yāti rátnam ||
Following that (right movement), may Jāspati shape for us the treasure, advancing in the way of the god Savitṛ. The strong one calls Bhaga for our help; and when Bhaga comes with his favor, then indeed the treasure arrives.
अनु॑ । तत् । नः॒ । जाःऽपतिः॑ । मं॒सी॒ष्ट॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नः । भग॑म् । उ॒ग्रः । अव॑से । जोह॑वीति । भग॑म् । अनु॑ग्रः । अध॑ । या॒ति॒ । रत्न॑म् ॥अनु । तत् । नः । जाःपतिः । मंसीष्ट । रत्नम् । देवस्य । सवितुः । इयानः । भगम् । उग्रः । अवसे । जोहवीति । भगम् । अनुग्रः । अध । याति । रत्नम् ॥anu | tat | naḥ | jāḥ-patiḥ | maṃsīṣṭa | ratnam | devasya | savituḥ | iyānaḥ | bhagam | ugraḥ | avase | johavīti | bhagam | anugraḥ | adha | yāti | ratnam