Sukta 7.38
अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः । अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु ॥
अ॒भि ये मि॒थो व॒नुष॒: सप॑न्ते रा॒तिं दि॒वो रा॑ति॒षाच॑: पृथि॒व्याः । अहि॑र्बु॒ध्न्य॑ उ॒त न॑: शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥
abhí yé mithó vanúṣaḥ sápante rātíṃ divó rāti-sā́caḥ pṛthivyā́ḥ | áhīr budhnyà utá naḥ śṛṇotu varū́try éka-dhenubhir ní pātu ||
May those powers who strive together and press forward toward the gift—companions of the giving from Heaven and from Earth—come close to us. May Ahi Budhnya, the Serpent of the deep foundation, listen to us; and may the protecting Power (Varūtrī), with her single-streaming milch-cows of abundance, guard us from below and all around.
अ॒भि । ये । मि॒थः । व॒नुषः॑ । सप॑न्ते । रा॒तिम् दि॒वः । रा॒ति॒ऽसाचः॑ । पृ॒थि॒व्याः । अहिः॑ । बु॒ध्न्यः॑ । उ॒त । नः॒ । शृ॒णो॒तु॒ । वरू॑त्री । एक॑धेनुऽभिः । नि । पा॒तु॒ ॥अभि । ये । मिथः । वनुषः । सपन्ते । रातिम् दिवः । रातिसाचः । पृथिव्याः । अहिः । बुध्न्यः । उत । नः । शृणोतु । वरूत्री । एकधेनुभिः । नि । पातु ॥abhi | ye | mithaḥ | vanuṣaḥ | sapante | rātim divaḥ | rāti-sācaḥ | pṛthivyāḥ | ahiḥ | budhnyaḥ | uta | naḥ | śṛṇotu | varūtrī | ekadhenu-bhiḥ | ni | pātu