Sukta 7.38
अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा । अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः ॥
अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा । अ॒भि स॒म्राजो॒ वरु॑णो गृणन्त्य॒भि मि॒त्रासो॑ अर्य॒मा स॒जोषा॑: ॥
abhí yáṃ devy áditi̱r gṛṇā́ti saváṃ devásya savitúr juṣāṇā́ | abhí sam-rā́jo váruṇo gṛṇanty abhí mitrā́so aryamā́ sa-jóṣāḥ ||
Him whom the goddess Aditi sings—embracing the impulsion of the god Savitar—him Varuṇa the sovereign praises, and Mitra and Aryaman together in one accord. Thus the powers of Truth uphold the solar impeller within us.
अ॒भि । यम् । दे॒वी । अदि॑तिः । गृ॒णाति॑ । स॒वम् । दे॒वस्य॑ । स॒वि॒तुः । जु॒षा॒णा । अ॒भि । स॒म्ऽराजः॑ । वरु॑णः । गृ॒ण॒न्ति॒ । अ॒भि । मि॒त्रासः॑ । अ॒र्य॒मा । स॒ऽजोषाः॑ ॥अभि । यम् । देवी । अदितिः । गृणाति । सवम् । देवस्य । सवितुः । जुषाणा । अभि । सम्राजः । वरुणः । गृणन्ति । अभि । मित्रासः । अर्यमा । सजोषाः ॥abhi | yam | devī | aditiḥ | gṛṇāti | savam | devasya | savituḥ | juṣāṇā | abhi | sam-rājaḥ | varuṇaḥ | gṛṇanti | abhi | mitrāsaḥ | aryamā | sa-joṣāḥ