Sukta 7.38
अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति । स नः स्तोमान्नमस्यश्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन् ॥
अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णन्ति॑ । स न॒: स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥
ápi stu̱táḥ savitā́ devó astu yám ā́ cid víśve vásavo gṛṇánti | sá naḥ stómān namasyáś canó dhād víśvebhiḥ pātu pāyúbhir ní sūrī́n ||
May Savitar indeed be the god praised—whom even all the Vasus sing. May he establish for us our hymns and our acts of reverence, and with all his guardianships protect our illumined leaders and seekers.
अपि॑ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे॑ । वस॑वः । गृ॒णन्ति॑ । सः । नः॒ । स्तोमा॑न् । न॒म॒स्यः॑ । चनः॑ । धा॒त् । विश्वे॑भिः । पा॒तु॒ । पा॒युऽभिः॑ । नि । सू॒रीन् ॥अपि । स्तुतः । सविता । देवः । अस्तु । यम् । आ । चित् । विश्वे । वसवः । गृणन्ति । सः । नः । स्तोमान् । नमस्यः । चनः । धात् । विश्वेभिः । पातु । पायुभिः । नि । सूरीन् ॥api | stutaḥ | savitā | devaḥ | astu | yam | ā | cit | viśve | vasavaḥ | gṛṇanti | saḥ | naḥ | stomān | namasyaḥ | canaḥ | dhāt | viśvebhiḥ | pātu | pāyu-bhiḥ | ni | sūrīn