Sukta 7.38
उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृतावृतस्य । व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥
उदु॑ तिष्ठ सवितः श्रु॒ध्य१॒॑स्य हिर॑ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ । व्यु१॒॑र्वीं पृ॒थ्वीम॒मतिं॑ सृजा॒न आ नृभ्यो॑ मर्त॒भोज॑नं सुवा॒नः ॥
údu tiṣṭha savitaḥ śrudhy asyá hiraṇya-pāṇe prá-bhṛtāv ṛtásya | vy ùrvī́ṃ pṛthvī́m amátiṃ sṛjān á ā́ nṛ́bhyo marta-bhójanam suvān áḥ ||
Rise up, O Savitar; hear this—O golden-handed—at the forward bearing of the Truth. Wide you release the vast earth and the unbounded thought, bringing to men the nourishment that supports the mortal journey.
उत् । ऊँ॒ इति॑ । ति॒ष्ठ॒ । स॒वि॒त॒रिति॑ । श्रु॒धि॒ । अ॒स्य । हिर॑ण्यऽपाणे । प्रऽभृ॑तौ । ऋ॒तस्य॑ । वि । उ॒र्वीम् । पृ॒थ्वीम् । अ॒मति॑म् । सृ॒जा॒नः । आ । नृऽभ्यः॑ । म॒र्त॒ऽभोज॑नम् । सु॒वा॒नः ॥उत् । ऊँ इति । तिष्ठ । सवितरिति । श्रुधि । अस्य । हिरण्यपाणे । प्रभृतौ । ऋतस्य । वि । उर्वीम् । पृथ्वीम् । अमतिम् । सृजानः । आ । नृभ्यः । मर्तभोजनम् । सुवानः ॥ut | oṃ iti | tiṣṭha | savitariti | śrudhi | asya | hiraṇya-pāṇe | pra-bhṛtau | ṛtasya | vi | urvīm | pṛthvīm | amatim | sṛjānaḥ | ā | nṛ-bhyaḥ | marta-bhojanam | suvānaḥ