Sukta 7.38
उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत् । नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ॥
उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् । नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना॑ पुरू॒वसु॒र्दधा॑ति ॥
údu ṣyá deváḥ savitā́ yayāma hiraṇyáyīm amátiṃ yā́m áśiśret | nūnáṃ bhágo hávyo mā́nuṣebhir ví yó rátnā puru-vásur dádhāti ||
Up has gone this god Savitar, setting in motion the golden thought which he has made to flow. Now Bhaga, to be invoked by men, distributes the treasures—he who carries many riches within his being.
उत् । ऊँ॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । य॒या॒म॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् । नू॒नम् । भगः॑ । हव्यः॑ । मानु॑षेभिः । वि । यः । रत्ना॑ । पु॒रु॒ऽवसुः॑ । दधा॑ति ॥उत् । ऊँ इति । स्यः । देवः । सविता । ययाम । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् । नूनम् । भगः । हव्यः । मानुषेभिः । वि । यः । रत्ना । पुरुवसुः । दधाति ॥ut | oṃ iti | syaḥ | devaḥ | savitā | yayāma | hiraṇyayīm | amatim | yām | aśiśret | nūnam | bhagaḥ | havyaḥ | mānuṣebhiḥ | vi | yaḥ | ratnā | puru-vasuḥ | dadhāti