Sukta 7.37
अभि यं देवी निॠतिश्चिदीशे नक्षन्त इन्द्रं शरदः सुपृक्षः । उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः ॥
अ॒भि यं दे॒वी निॠ॑तिश्चि॒दीशे॒ नक्ष॑न्त॒ इन्द्रं॑ श॒रद॑: सु॒पृक्ष॑: । उप॑ त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णव॑न्त॒ मर्ता॑: ॥
abhí yáṃ devī́ nír̥tiś cid ī́śe nákṣanta índraṃ śáradaḥ su-pṛ́kṣaḥ | úpa tri-bándhur jarad-aṣṭím eti ásvaveśaṃ yáṃ kṛṇávanta mártāḥ ||
Him—Indra—whom even the goddess of Dissolution would claim, the well-nourishing seasons still seek and reach. Toward him comes the threefold-bound one, to the old eightfold limit; that constricted state which mortals fashion, he can overpass and transform.
अ॒भि । यम् । दे॒वी । निःऽऋ॑तिः । चि॒त् । ईशे॑ । नक्ष॑न्ते । इन्द्र॑म् । श॒रदः॑ । सु॒ऽपृक्षः॑ । उप॑ । त्रि॒ऽब॒न्धुः॒ । ज॒रत्ऽअ॑ष्टिम् । ए॒ति॒ । अस्व॑वेशम् । यम् । कृ॒णव॑न्त । मर्ताः॑ ॥अभि । यम् । देवी । निःऋतिः । चित् । ईशे । नक्षन्ते । इन्द्रम् । शरदः । सुपृक्षः । उप । त्रिबन्धुः । जरत्अष्टिम् । एति । अस्ववेशम् । यम् । कृणवन्त । मर्ताः ॥abhi | yam | devī | niḥ-ṛtiḥ | cit | īśe | nakṣante | indram | śaradaḥ | su-pṛkṣaḥ | upa | tri-bandhuḥ | jarat-aṣṭim | eti | asvaveśam | yam | kṛṇavanta | martāḥ