Sukta 7.37
वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः । अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी ॥
वा॒सय॑सीव वे॒धस॒स्त्वं न॑: क॒दा न॑ इन्द्र॒ वच॑सो बुबोधः । अस्तं॑ ता॒त्या धि॒या र॒यिं सु॒वीरं॑ पृ॒क्षो नो॒ अर्वा॒ न्यु॑हीत वा॒जी ॥
vāsáyasīva vedhásaḥ tváṃ naḥ kadā́ na indra vácaso bubodhaḥ | ástaṃ tātyā́ dhiyā́ rayíṃ su-vī́raṃ pṛ́kṣo no árvā́ ny ùhīta vājī́ ||
As though you awaken the inspired seers, when will you, O Indra, awaken our word? Bring to its home, by the guiding thought, the wealth that carries heroic force; O strong steed of plenitude, draw near and bear it down to us.
वा॒सय॑सिऽइव । वे॒धसः॑ । त्वम् । नः॒ । क॒दा । नः॒ । इ॒न्द्र॒ । वच॑सः । बु॒बो॒धः॒ । अस्त॑म् । ता॒त्या । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । पृ॒क्षः । नः॒ । अर्वा॑ । नि । उ॒ही॒त॒ । वा॒जी ॥वासयसिइव । वेधसः । त्वम् । नः । कदा । नः । इन्द्र । वचसः । बुबोधः । अस्तम् । तात्या । धिया । रयिम् । सुवीरम् । पृक्षः । नः । अर्वा । नि । उहीत । वाजी ॥vāsayasi-iva | vedhasaḥ | tvam | naḥ | kadā | naḥ | indra | vacasaḥ | bubodhaḥ | astam | tātyā | dhiyā | rayim | su-vīram | pṛkṣaḥ | naḥ | arvā | ni | uhīta | vājī