Sukta 7.37
आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ । सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः ॥
आ नो॒ राधां॑सि सवित स्त॒वध्या॒ आ रायो॑ यन्तु॒ पर्व॑तस्य रा॒तौ । सदा॑ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
ā́ no rā́dhāṃsi savita stavádhyā ā́ rā́yo yantu párvatasya rātáu | sádā no divyáḥ pāyúḥ sisaktu yūyáṃ pāta svastíbhíḥ sádā naḥ ||
Come to us, O Savitar, with your aids that are to be praised; let the plenitudes come in the giving from the summit. May the divine Guardian cleave to us always; and may you protect us always with states of well-being.
आ । नः॒ । राधां॑सि । स॒वि॒त॒रिति॑ । स्त॒वध्यै॑ । आ । रायः॑ । य॒न्तु॒ । पर्व॑तस्य । रा॒तौ । सदा॑ । नः॒ । दि॒व्यः । पा॒युः । सि॒स॒क्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । नः । राधांसि । सवितरिति । स्तवध्यै । आ । रायः । यन्तु । पर्वतस्य । रातौ । सदा । नः । दिव्यः । पायुः । सिसक्तु । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥ā | naḥ | rādhāṃsi | savitariti | stavadhyai | ā | rāyaḥ | yantu | parvatasya | rātau | sadā | naḥ | divyaḥ | pāyuḥ | sisaktu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ