Sukta 7.37
सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः । ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः ॥
सनि॑तासि प्र॒वतो॑ दा॒शुषे॑ चि॒द्याभि॒र्विवे॑षो हर्यश्व धी॒भिः । व॒व॒न्मा नु ते॒ युज्या॑भिरू॒ती क॒दा न॑ इन्द्र रा॒य आ द॑शस्येः ॥
sánitāsi praváto dāśúṣe cid yā́bhir víveṣo hary-aśva dhī́bhiḥ | vávann mā́ nú te yújyābhir ūtī́ kadā́ na indra rāyá ā́ daśasyeḥ ||
You are the winner of the forward-pressing currents even for the giver, by those thoughts with which you are moved, O Indra of the tawny steeds. We cry out for your yoking help; when will you favor us with the riches of fullness of being?
सनि॑ता । अ॒सि॒ । प्र॒ऽवतः॑ । दा॒शुषे॑ । चि॒त् । याभिः॑ । विवे॑षः । ह॒रि॒ऽअ॒श्व॒ । धी॒भिः । व॒व॒न्म । नु । ते॒ । युज्या॑भिः । ऊ॒ती । क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ ॥सनिता । असि । प्रवतः । दाशुषे । चित् । याभिः । विवेषः । हरिअश्व । धीभिः । ववन्म । नु । ते । युज्याभिः । ऊती । कदा । नः । इन्द्र । रायः । आ । दशस्येः ॥sanitā | asi | pra-vataḥ | dāśuṣe | cit | yābhiḥ | viveṣaḥ | hari-aśva | dhībhiḥ | vavanma | nu | te | yujyābhiḥ | ūtī | kadā | naḥ | indra | rāyaḥ | ā | daśasyeḥ